|
|
 |
 |
|
|
२ सभापर्व.jpg)
॥ श्रीः ॥
2.90. अध्यायः 090
Mahabharata - Sabha Parva - Chapter Topics
भौमवचनम्॥ 1॥ विकर्णवचनम्॥ 2॥ दुःशासनेन द्रौपदीवस्त्रापहारः॥3॥ श्रीकृष्णप्रसादात् द्रौपद्यः वस्त्रराशिप्रादुर्भावः॥ 4॥ विदुरवचनम्॥ 5॥
Mahabharata - Sabha Parva - Chapter Text
भीम उवाच।
भवन्ति गेहे बन्धक्यः कितवानां युधिष्ठिर।
भवन्ति दीव्यन्ति दया चैवास्ति तावस्वपि॥ 2-90-1(14920)
काश्यो यद्धनमाहार्षीद्द्रव्यं यच्चान्यदुत्तमम्।
तथाऽन्ये पृथिवीपाला यानि रत्नान्युपाहरन्॥ 2-90-2(14921)
वाहनानि धनं चैव कवचान्यायुधानि च।
राज्यमात्मा वयं चैव कैतवेन हृतं परैः॥ 2-90-3(14922)
न च मे तत्र कोपोऽभूत्सर्वस्येशो हि नो भवान्।
इमं त्वतिक्रमं मन्यो द्रौपदी यत्र पण्यते॥ 2-90-4(14923)
एषा ह्यनर्हती बाला पाण्डवान्प्राप्य कौरवैः।
त्वत्कृते क्लिश्यते क्षुद्रैर्नृशंसैरकृतात्मभिः॥ 2-90-5(14924)
अस्याः कृते मन्युरयं त्वयि राजन्निपात्यते।
बाहू ते सम्प्रधक्ष्यामि सहदेवाग्निमानयः॥ 2-90-6(14925)
अर्जुन उवाच। 2-90-7x(1634)
न पुरा भीमसेन त्वमीदृशीर्वदिता गिरः।
परैस्ते नाशितं नूनं नृशंसैर्धर्मगौरवम्॥ 2-90-7(14926)
न सकामाः परो कार्या धर्ममेवाचरोत्तमम्।
भ्रातरं धार्मिकं ज्येष्ठं कोऽतिवर्तितुमर्हति॥ 2-90-8(14927)
आहूतो हि परै राजा क्षात्रं व्रतमनुस्मरन्।
दीव्यते परकामेन तन्नः कीर्तिकरं महत्॥ 2-90-9(14928)
भीमसेन उवाच॥ 2-90-10x(1635)
एवमस्मिन्कृतं विद्यां यदि नाहं धनञ्जय।
दीप्तेऽग्नौ सहितौ बाहू निर्दहेयं बलादिव॥ 2-90-10(14929)
वैशम्पायन उवाच॥ 2-90-11x(1636)
तथा तान्दुः खितान्दृष्ट्वा पाण्डवान्धृतराष्ट्रजः।
कृष्यमाणां च पाञ्चालीं विकर्ण इदमब्रवीत्॥ 2-90-11(14930)
याज्ञसेन्या यदुक्तं तद्वाक्यं विब्रूत पार्थिवाः।
अविवेकेन वाक्यस्य नरकः सद्य एव नः॥ 2-90-12(14931)
भीष्मश्च धृतराष्ट्रश्च कुरुवृद्धतमावुभौ।
समेत्य नाहतुः किञ्चिद्विदुरश्च महामतिः॥ 2-90-13(14932)
भारद्वाजश्च सर्वेषामाचार्यः कृप एव च।
कुत एतावपि प्रश्नं नाहतुर्द्विजसत्तमौ॥ 2-90-14(14933)
ये त्वन्ये पृथिवीपालाः समेताः सर्वतोदिशम्।
कामक्रोधौ समुत्सृज्य ते ब्रुवन्तु यथामति॥ 2-90-15(14934)
यदितं द्रौपदी वाक्यमुक्तवत्यसकृच्छुभा।
विमृश्य कस्य कः पक्षः पार्थिवा वदतोत्तरम्॥ 2-90-16(14935)
वाशम्पायन उवाच॥ 2-90-17x(1637)
एवं स बहुशः सर्वानुक्तवांस्तान्सभासदः।
न च ते पृथिवीपालास्तमूचुः साध्वसाधु वा॥ 2-90-17(14936)
उक्त्वाऽसकृत्तथा सर्वान्विकर्णः पृथिवीपतीन्।
पाणौ पाणिं विनिष्पिष्य निःश्वसन्निदमब्रवीत्॥ 2-90-18(14937)
विब्रूत पृथिवीपाला वाक्यं मा वा कथञ्चनि।
मन्ये न्याय्यं यदत्राहं तद्वि वक्ष्यामि कौरवाः॥ 2-90-19(14938)
चत्वार्याहुर्नश्रेष्ठा व्यसनानि महीक्षिताम्।
मृगयां पानमक्षांश्च ग्राम्ये चैवातिरक्तताम्॥ 2-90-20(14939)
एतेषु हि नरः सक्तो धर्ममुत्सृज्य वर्तते।
यथाऽयुक्तेन च कृतां क्रियां लोको न मन्यते॥ 2-90-21(14940)
तथेयं पाण्डुपुत्रेण व्यसने वर्तता भृशम्।
समाहूतेन कितवैरास्थितो द्रौपदीपणः॥ 2-90-22(14941)
साधारणी च सर्वेषां पाण्डवानामनिन्दिता।
जितेन पूर्वं चानेन पाण्डवेन कृतः पणः॥ 2-90-23(14942)
इयं च कीर्तिता कृष्णा सौबलेन पणार्थिना।
एतत्सर्वं विचार्याहं मन्ये न विजितामिमाम्॥ 2-90-24(14943)
वैशम्पायन उवाच॥ 2-90-25x(1638)
एतच्छ्रुत्वा महान्नादः सभ्यानामुदतिष्ठत।
विकर्णं शंसमानानां सौबलं चापि निन्दताम्॥ 2-90-25(14944)
तस्मिन्नुपरते शब्दे राधेयः क्रोधमूर्छितः।
प्रगृह्य रुचिरं बाहुमिदं वचनमब्रवीत्॥ 2-90-26(14945)
कर्ण उवाच॥ 2-90-27x(1639)
दृश्यन्ते वै विकर्णेह वैकृतानि बहून्यपि।
तज्जातस्तद्विनाशाय यथाऽग्निररणिप्रजः॥ 2-90-27(14946)
एते न किञ्चिदप्याहुश्चोदिता ह्यपि कृष्णया।
धर्मेण विजितामेतां मन्यन्ते द्रपदात्मजाम्॥ 2-90-28(14947)
त्वं तु केवलबाल्येन धार्तराष्ट्र विदीर्यसे।
यद्ब्रवीषि सभाम्ध्ये बालः स्थविरभाषितम्॥ 2-90-29(14948)
न च धर्म यथावत्त्वं कृष्णां च जितेति सुमन्दधीः।
यद्ब्रवीषि जितां कृष्णां न जितेति सुमन्दधीः॥ 2-90-30(14949)
कथं ह्यविजितां कृष्णां मन्यसे धृतराष्ट्रज।
यदा सभायां सर्वस्वं न्यस्तवान्पाण्डवाग्रजः॥ 2-90-31(14950)
अभ्यन्तर च सर्वस्वे द्रौपदी भरतर्षभ।
एवं धर्मजितां कृष्णां मन्यसे न जितां कथम्॥ 2-90-32(14951)
कीर्तिता द्रौपदी वाचा अनुज्ञाता च पाण्डवैः।
भवत्यविजिता केन हेतुनैषा मता तव॥ 2-90-33(14952)
मन्यसे वा सभामेतामानीतामेकवाससम्।
अधर्मेणेति तत्रापि शृणु मे वाक्यमुत्तमम्॥ 2-90-34(14953)
एको भर्ता स्त्रिया देवैर्विहितः कुरुनन्दन।
इयं त्वनेकवशगा बन्धकीति विनिश्चिता॥ 2-90-35(14954)
अस्याः सभामानयनं न चित्रमिति मे मतिः।
एकाम्बरधरत्वं वाऽप्यथवाऽपि विवस्त्रता॥ 2-90-36(14955)
यच्चैषां द्रविणं किञ्चिद्य चैषा ये च पाण्डवाः।
सौबलेनेह तत्सर्वं धर्मेण विजितं वसु॥ 2-90-37(14956)
दुःशासन सुबालोऽयं विकर्णः प्राज्ञवादिकः।
पाण्डवानां च वासांसि द्रौपद्याश्चाप्युपाहर॥ 2-90-38(14957)
वैशम्पायन उवाच॥ 2-90-39x(1640)
तच्छ्रुत्वा पाण्डवाः सर्वे स्वानि वासांसि भारत।
अवकीर्योत्तरीयाणि सभायां समुपाविशन्॥ 2-90-39(14958)
ततो दुःशासनो राजन्द्रौपद्या वसनं बलात्।
सभामध्ये सभाक्षिप्य व्यपाक्रष्टुं प्रचक्रमे॥ 2-90-40(14959)
`आकृष्यमाणे वसने विललाप सुदुःखिता।
ज्ञातं मया विसिष्ठेन पुरा गीतं महात्मना॥ 2-90-41(14960)
महत्यापदि सम्प्राप्ते स्मर्तव्यो भगवान्हरिः।
इति निश्चित्य मनसा शरणागतवत्सलम्।
आकृष्यमाणे वसने द्रौपदी कृष्णमस्तरत्॥ 2-90-42(14961)
शङ्खचक्रगदापाणे द्वारकानिलयाच्युत।
गोविन्द पुण्डरीकाक्ष रक्ष मां शरणागताम्॥ 2-90-43(14962)
हा कृष्ण द्वारकावासिन्क्वासि यादवन्दन।
इमामवस्थां सम्प्राप्तामनाथां किमुपेक्षसे॥ 2-90-44(14963)
गोविन्द द्वारकावासिन्कृष्ण गोपीजनप्रिय।
कौरवैः परिभूतां मां किं न जानासि केशव'॥ 2-90-45(14964)
हे नाथ हे रमानाथ व्रजनाथार्तिनाशन।
कौरवार्णवग्नां मामुद्धरस्व जनार्दन॥ 2-90-46(14965)
कृष्णकृष्ण महायोगिन्विश्वात्मन्विश्व्भावन।
प्रपन्नां पाहि गोविन्द कुरमध्येऽवसीदतीम्॥ 2-90-47(14966)
इत्यनुस्मृत्य कृष्णं सा हरिं त्रिभुवनेश्वरम्।
प्रारुदद्दुः खिता राजन्मुखमाच्छाद्य भामिनी॥ 2-90-48(14967)
तस्य प्रसाद्द्रौपद्याः कृष्णमाणेऽम्बरे तदा।
तद्रूपमपरे वस्त्रं प्रादुरासीदनेकशः॥ 2-90-49(14968)
नानारागविरागाणि वसनान्यथ वै प्रभो।
प्रादुर्भवन्ति शतशो धर्मस्य परिपालनात्॥ 2-90-50(14969)
ततो हलहलाशब्दस्तत्रासीद्घोरदर्शनः।
तदद्भुततमं लोके वीक्ष्य सर्वे महीभृतः॥ 2-90-51(14970)
शशंसुर्द्रौपदीं तत्र कुत्सन्तो धृतराष्ट्रजम्।
`धिग्धिगित्यशिवां वाचमुत्सृजन्कौरवान्प्रति'॥ 2-90-52(14971)
यदा तु वाससां राशिः सभामध्ये समाचितः'।
तदा दुःशासनः श्रान्तो व्रीडितः समुपाविशत् 2-90-53(14972)
शशाप तत्र भीमस्तु राजमध्ये बृहत्स्वनः।
क्रोधाद्विस्फुरमाणौष्ठो विनिष्पिष्य करे करम्॥ 2-90-54(14973)
भीम उवाच॥ 2-90-55x(1641)
इदं मे वाक्यमादध्वं क्षत्रिया लोकवासिनः।
नोक्तपूर्वं नरैरन्यैर्न चान्यो यद्वदिष्यति॥ 2-90-55(14974)
यद्येतदेवमुक्त्वाऽहं न कुर्यां पृथिवीश्वराः।
पितामहानां पूर्वेषां नाहं गतिमवाप्नुयाम्॥ 2-90-56(14975)
अस्य पापस्य दुर्बुद्धेर्भारतापसदस्य च।
न पिबेयं बलाद्वक्षो भित्त्वा चेद्रुधिरं युधि॥ 2-90-57(14976)
वैशम्पायन उवाच॥ 2-90-58x(1642)
तस्य ते तद्वचः श्रुत्वा रौद्रं लोमप्रहर्षणम्॥
प्रचक्रुर्बहुलां पूजां कुसन्तो धृतराष्ट्रजम्॥ 2-90-58(14977)
न विब्रुवन्ति कौरव्याः प्रश्नमेतमिति स्म ह।
सुजनः क्रोशति स्मात्र धृतराष्ट्रं विगर्हयन्॥ 2-90-59(14978)
विदुर उवाच।
द्रौपदी प्रश्नमुक्त्वैवं रोरवीति त्वनाथवत्। 2-90-60(14979)
वैशम्पायन उवाच॥ 2-90-61x(1643)
तस्य ते तद्वचः श्रुत्वा रौद्रं लोमप्रहर्षणम्।
न च विब्रूत तं प्रश्नं सभ्या धर्मोऽत्र पीड्यते॥ 2-90-61(14980)
सभां प्रपद्यते प्रश्नः प्रज्वलन्निव हव्यवाद्।
तं वै सत्येन धर्मेण सभ्याः प्रशमयन्त्युत॥ 2-90-62(14981)
धर्म्यं प्रश्नमतो ब्रूयादार्यः सत्येन मानवः।
विब्रूयुस्तत्र तं प्रश्नं कामक्रोधबलातिगाः॥ 2-90-63(14982)
विकर्णेन यथाप्रज्ञमुक्तः प्रश्नो नराधिपाः।
भवन्तोऽपि हि तं प्रश्नं विब्रुवन्तु यथामति॥ 2-90-64(14983)
यो हि प्रश्नं न विब्रूयाद्धर्मदर्शी सभां गतः।
अनृते या फलावाप्तिस्तस्याः सोऽर्धं समश्नुते॥ 2-90-65(14984)
यः पुनर्वितथं ब्रूयाद्धर्मदशीं सभां गतः।
अनृतस्य फलं कृत्स्नं स प्राप्नोतीति निश्चयः॥ 2-90-66(14985)
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
प्रह्लादस्य च संवादं मुनेराङ्गिरसस्य च॥ 2-90-67(14986)
प्रह्लादो नाम दैत्येन्द्रस्तस्य पुत्रो विरोचनः।
कन्याहेतोराङ्गिरसं सुधन्वानमुपाद्रवत्॥ 2-90-68(14987)
अहं ज्यायानहं ज्यायानिति कन्येप्सया तदा।
तयोर्देवनमत्रासीत्प्राणयोरिति नः श्रुतम्॥ 2-90-69(14988)
तयोः प्रश्नविवादोऽभूत्प्रह्लादं तावपृच्छताम्।
ज्यायान्क आवयोरेकः प्रश्नं प्रब्रूहि मा मृषा॥ 2-90-70(14989)
स वै विवदनाद्भीतः सुधन्वानं विलोकयन्।
तं सुधन्वाब्रवीत्क्रुद्धो ब्रह्मदम्ड इव ज्वलन्॥ 2-90-71(14990)
यदि वै वक्ष्यसि मृषा प्रह्लादाथ न वक्ष्यसि॥
शतघा ते शिरो वज्री वज्रेण प्रहरिष्यति॥ 2-90-72(14991)
सुधन्वना तथोक्तः सन्व्यथितोऽश्वत्थपर्णवत्।
जगाम कश्यपं दैत्यः परिप्रष्टुं महौजसम्॥ 2-90-73(14992)
प्रह्लाद उवाच॥ 2-90-74x(1644)
त्वं वै धर्मस्य विज्ञाता दैवस्येहासुरस्य च।
ब्राह्मणस्य महाभाग धर्मकृच्छ्रमिदं शृणु॥ 2-90-74(14993)
यो वै प्रश्नं न विब्रूयाद्वितथं चैव निर्दिशेत्।
के वै तस्य परे लोकास्तन्ममाचक्ष्व पृच्छतः॥ 2-90-75(14994)
कश्यप उवाच॥ 2-90-76x(1645)
जानन्नविब्रुवन्प्रश्नान्कामात्क्रोधाद्भयात्तथा।
सहस्रं वारुणान्पाशानात्मनि प्रतिमुञ्चति॥ 2-90-76(14995)
साक्षी वा विब्रुवन्साक्ष्यं गोकर्णशिथिलश्वरन्।
सहस्रं वारुणान्पाशानात्मनि प्रतिमुञ्जति॥ 2-90-77(14996)
तस्य संवत्सरे पूर्णे पाश एकः प्रमुच्यते।
तस्मात्सत्यं तु वक्तव्यं जानता सत्यमुञ्जसा॥ 2-90-78(14997)
विद्धो धर्मो ह्यधर्मेण सभां यत्रोपपद्यते।
न चास्य शल्यं कृन्तन्ति विद्धास्तत्र सभासदः॥ 2-90-79(14998)
अर्धं हरति वै श्रेष्ठः पादो भवति कर्तृषु।
पादश्चैव सभासत्सु ये न निन्दन्ति निन्दितम्॥ 2-90-80(14999)
अनेना भवति श्रेष्ठो मुच्यन्ते च सभासदः।
एनो गच्छति कर्तारं निन्दार्हो यत्र निन्द्यते॥ 2-90-81(15000)
वितथं तु वदेयुर्ये धर्मं प्रह्लाद पृच्छते।
इष्टापूर्तं च ते घ्न्ति सप्तसप्त परावरान्॥ 2-90-82(15001)
हृतस्वस्य हि यद्दुःखं हतपुत्रस्य चैव यत्।
ऋणिनः प्रति यच्चैव स्वार्थाद्धष्टस्य चैव यत्॥ 2-90-83(15002)
स्त्रियाः पत्या विहीनाया राज्ञा ग्रस्तस्य चैव यत्।
अपुत्रायाश्च यद्दुःखं व्याघ्राघ्रातस्य चैव यत्॥ 2-90-84(15003)
अध्यूढायाश्च यद्दुःखं व्याघ्राघ्रातस्य चैव यत्॥
एतानि वै समान्याहुर्दुःखानि त्रिदिवेश्वराः॥ 2-90-85(15004)
तानि सर्वाणि दुःखानि प्राप्नोति वितथं ब्रुवन्।
समक्षदर्शनात्साक्षी श्रवणाच्चेति धारणात्॥ 2-90-86(15005)
तस्मात्सत्यं ब्रुवत्साक्षी धर्मार्थाभ्यां न हीयते।
कश्यपस्य वचः श्रुत्वा प्रह्लादः पुत्रमब्रवीत्॥ 2-90-87(15006)
श्रेयान्सुधन्वा त्वत्तो वै मत्तः श्रेयांस्तथाङ्गिराः।
माता सुधन्वाऽयं प्राणानामीश्वरस्तव॥
विरोचन सुधन्वाऽयं प्राणानामीश्वरस्तव॥ 2-90-88(15007)
सुधन्वोवाच। 2-90-89x(1646)
पुत्रस्नेहं पिरत्यज्य यस्त्वं धर्मे व्यवस्थितः।
अनुजानामि ते पुत्रं जीवत्वेव शतं समाः॥ 2-90-89(15008)
विदुर उवाच। 2-90-90x(1647)
एवं वै परमं धर्मं श्रुत्वा सर्वे सभासदः।
यथाप्रश्नं तु कृष्णाया मन्यध्वं तत्र किं परम्॥ 2-90-90(15009)
वैशम्पायन उवाच॥ 2-90-91x(1648)
विदुरस्य वचः श्रुत्वा नोचुः किञ्चन पार्थिवाः।
कर्णो दुःशासनं त्वाह कृष्णं दासीं गृहान्नय॥ 2-90-91(15010)
तां वेपमानां सव्रीडां प्रलपन्तीं स्म पाण्डवान्।
दुःशासनः सभामध्ये विचकर्ष तपस्विनीम्॥ ॥ 2-90-92(15011)
इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि नवतितमोऽध्यायः॥ 90॥
Mahabharata - Sabha Parva - Chapter Footnotes
2-90-20 ग्राम्ये स्त्रीभोगी॥ 2-90-41 आकृष्यमाणे वसने द्रौपद्या चिन्तितो हरिः। गोविन्द द्वारकान्वासिन्कृष्ण गो पीजनप्रिय। कौरवैः परिभूतां मां किं ज जानासि केशव। इति झ.पाठः॥ 2-90-77 गोकर्णशिथिल उभयक्षस्पर्शी॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|